गृहपाठः (तृतीयः)
क) पररूपविधायकानि सूत्राणि वार्तिकानि च ( भवद्भिः पठितानि सर्वाणि)
अत्र लिखन्तु -
पररूपसन्धिविधायकानि वार्तिकानि -
1. शकन्ध्वादिषु पररूपं वाच्यं तच्च टेः |
2. ओत्वोष्ठयोः समासे वा |
3. सारङ्गः पशुपक्षिणोः |
4. सीमान्तः केशवेशे |
5. अव्यक्तानुकरणे एकाच्-शब्दे पररूपसन्धिः न भवति |
पररॊपस्नधिविधायकानि सूत्राणि -
1. ओमाङ्गोश्च | (6.1.95)
2. अव्यक्तानुकरणस्यात इतौ | (6.1.98)
3. नाम्रेडितस्यान्त्यस्य तु वा | (6.1.99)
ख) स्ववाक्यैः उत्तरन्तु-
1. प्रकृतिभावसन्धिः कस्मिन् सन्धौ अन्तर्भवति तथा च 'प्रकृतिभाव'-शब्दस्य
अर्थः कः?
प्रकृतिभावसन्धिः अच्-संधौ अन्तर्भवति |
"प्रकृतिभाव"-शब्दस्य अर्थः "प्रकृत्या एव तिष्ठति" इति |
2. पदान्ताः अ/इ/उ/ऋ/लू-वर्णाः + ऋ
अस्यां स्थितौ कस्य सन्धेः प्रथमं प्राप्तिः ?
अक्-वर्णात् (अ / इ / उ / ऋ / लू ) ऋकारे परे प्रकृतिभावसन्धिः विकल्पेन भवति |
3. अष्टमाध्यायपठितेषु सन्धिसूत्रेषु युगपत्प्राप्तिस्थले कस्य प्राधान्यम् ? पूर्वसूत्रस्य उत परसूत्रस्य?
अष्टमाध्यायपठितेषु सन्धिसूत्रेषु युगपत्प्राप्तिस्थले पूर्वसूत्रस्य प्राधान्यं भवति |
4. कस्यां स्थितौ श्चुत्वसन्धिः भवितुं न अर्हति ?
शकारात् परस्य तवर्गस्य स्थाने चवर्गः आदेशः न भवति |
5. कीदृशीषु स्थितिषु ष्टुत्वसन्धिः भवितुं न अर्हति ?
1. तवर्गात् षकारेण योगे ष्टुत्वं न भवति |
2. पदान्तात् नाम् - नवति - नगरीशब्दानां विहाय टवर्गात् परस्य सकार-तवर्गयोः ष्टुत्वं न भवति |
ग) अत्र सन्धिस्थलानि परिचित्य अधीतसन्धीनां नामानि सूचयन्तु-
* कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ।
सोपाध्यायर्त्विगादिभिः
= सोपाध्यायर्त्विक् + आदिभिः - जश्त्वसन्धिः
= (सोपाध्याय + ऋत्विक्)+ आदिभिः - गुणसन्धिः
= (स + उपाध्याय)+ ऋत्विक् + आदिभिः - गुणसन्धिः
* पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमद्य ।
पश्यञ्जनं = पश्यन् + जनं - श्चुत्वसन्धिः
हन्तेति = हन्त + इति - गुणसन्धिः
* अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम्।
वधूर्धन्या = वधूः + धन्या - विसर्गसन्धिः (रेफादेशः)
चैवं = च + एवं - वृद्धिसन्धिः
* पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ।
(अत्र सन्धिः कोऽपि न दृश्यते | )
* यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती ।
नोपलभेताङ्घ्रावूष्माणं
= नोपलभेताङ्घ्रौ + ऊष्माणं - यान्तवान्तादेससन्धिः
= (नोपलभेत + अन्घ्रौ) + उष्माणं - सवर्णदीर्घसन्धिः
= (न + उपलभेत) + अङ्घ्रौ + उष्माणं - गुणसन्धिः
पत्युरर्चती = पत्युः + अर्चती - विसर्गसन्धिः (रेफादेशः)
కామెంట్లు లేవు:
కామెంట్ను పోస్ట్ చేయండి